जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी।
गंगा-यमुना नद्योर्मध्ये,
श्रेष्ठा चेयमुर्वरा धरणी।
जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी।।
घारं पारं करक पचारम,
इति नामसु विभक्ता धरणी।
जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी। ।
गंग-देव-शिशु-पंगु कवीनाम
काव्यै सतत गुन्जिता धरणी।
जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी। ।
राज्ये- राष्ट्रे – विश्व गोलके
संशोभितालंकरिता धरणी।
जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी। ।
Devesh shastri